HomeDevotionalAshtakam CollectionGuru Ashtakam

Guru Ashtakam

गुरु अष्टकम्

✦ Guru

Lyrics (Devanagari)

शरीरं सुरूपं तथा वा कलत्रं
यशश्चारु चित्रं धनं मेरुतुल्यम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥

कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम्।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥

षडङ्गादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम्॥

... (गुरु अष्टकम् — आदि शंकराचार्य कृत, 8 पद्यों में सांसारिक उपलब्धियों की तुलना गुरुभक्ति से) ...

गुरोरष्टकं यः पठेत्पुण्यदेहि
यतिर्भूपतिर्ब्रह्मचारी च गेही।
लभेद्वाञ्छितार्थं पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम्॥

Meaning

Composed by Adi Shankaracharya, this ashtakam repeatedly asks "what use is it?" of beauty, wealth, fame, family, scholarship and status if the mind is not devoted to the Guru's feet — establishing that true fulfillment comes only through surrender to a realized teacher.

When & Why It Is Recited

Recited on Guru Purnima and by spiritual seekers as a reminder that worldly achievements are meaningless without inner guidance and devotion.